[Home](https://nakshatrikaveda.com/)/[Scriptures](https://nakshatrikaveda.com/scriptures)/[Sanskrit Library](https://nakshatrikaveda.com/scriptures/library)/[Rigveda](https://nakshatrikaveda.com/scriptures/library/rigveda)/[Mandala 1](https://nakshatrikaveda.com/scriptures/library/rigveda/1)/1.126

# सूक्तम् 1.126 · Rigveda 1.126

ऋषिः १-५ कक्षीवान् दैर्घतमस औशिजः, ६ स्वनयो भावयव्यः, ७ रोमशा · दे. १-५ स्वनयो भावयव्यः, ६ रोमशा, ७ स्वनयो भावयव्यः । त्रिष्टुप्, ६-७ अनुष्टुप्।

1
अमन्दान्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य ।
यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः

2
शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्सद्य आदम् ।
शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान

3
उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः ।
षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवाँ अभिपित्वे अह्नाम्

4
चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति ।
मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः

5
पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः ।
सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः

6
आगधिता परिगधिता या कशीकेव जङ्गहे ।
ददाति मह्यं यादुरी याशूनां भोज्या शता

7
उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।
सर्वाहमस्मि रोमशा गन्धारीणामिवाविका

[← Mandala 1 (191)](https://nakshatrikaveda.com/scriptures/library/rigveda/1)

[← 1.125](https://nakshatrikaveda.com/scriptures/library/rigveda/1/125)[1.127 →](https://nakshatrikaveda.com/scriptures/library/rigveda/1/127)
