[Home](https://nakshatrikaveda.com/)/[Scriptures](https://nakshatrikaveda.com/scriptures)/[Sanskrit Library](https://nakshatrikaveda.com/scriptures/library)/[Rigveda](https://nakshatrikaveda.com/scriptures/library/rigveda)/[Mandala 10](https://nakshatrikaveda.com/scriptures/library/rigveda/10)/10.8

# सूक्तम् 10.8 · Rigveda 10.8

ऋषिः त्रिशिरास्त्वाष्ट्रः · दे. अग्निः, ७-९ इन्द्रः। त्रिष्टुप्

1
प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति ।
दिवश्चिदन्ताँ उपमाँ उदानळपामुपस्थे महिषो ववर्ध

2
मुमोद गर्भो वृषभः ककुद्मानस्रेमा वत्सः शिमीवाँ अरावीत् ।
स देवतात्युद्यतानि कृण्वन्स्वेषु क्षयेषु प्रथमो जिगाति

3
आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्णः ।
अस्य पत्मन्नरुषीरश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त

4
उषौषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा ।
ऋताय सप्त दधिषे पदानि जनयन्मित्रं तन्वे स्वायै

5
भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि ।
भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः

6
भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम्

7
अस्य त्रितः क्रतुना वव्रे अन्तरिच्छन्धीतिं पितुरेवैः परस्य ।
सचस्यमानः पित्रोरुपस्थे जामि ब्रुवाण आयुधानि वेति

8
स पित्र्याण्यायुधानि विद्वानिन्द्रेषित आप्त्यो अभ्ययुध्यत् ।
त्रिशीर्षाणं सप्तरश्मिं जघन्वान्त्वाष्ट्रस्य चिन्निः ससृजे त्रितो गाः

9
भूरीदिन्द्र उदिनक्षन्तमोजोऽवाभिनत्सत्पतिर्मन्यमानम् ।
त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणस्त्रीणि शीर्षा परा वर्क्

[← Mandala 10 (191)](https://nakshatrikaveda.com/scriptures/library/rigveda/10)

[← 10.7](https://nakshatrikaveda.com/scriptures/library/rigveda/10/7)[10.9 →](https://nakshatrikaveda.com/scriptures/library/rigveda/10/9)
