[Home](https://nakshatrikaveda.com/)/[Scriptures](https://nakshatrikaveda.com/scriptures)/[Sanskrit Library](https://nakshatrikaveda.com/scriptures/library)/[Rigveda](https://nakshatrikaveda.com/scriptures/library/rigveda)/[Mandala 8](https://nakshatrikaveda.com/scriptures/library/rigveda/8)/8.71

# सूक्तम् 8.71 · Rigveda 8.71

ऋषिः सुदीति-पुरुमीळ्हावाङ्गिरसौ, तयोर्वान्यतरः। · दे. अग्निः । गायत्री, १०-१५ प्रगाथः ( )।

1
त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः ।
उत द्विषो मर्त्यस्य

2
नहि मन्युः पौरुषेय ईशे हि वः प्रियजात ।
त्वमिदसि क्षपावान्

3
स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे ।
रयिं देहि विश्ववारम्

4
न तमग्ने अरातयो मर्तं युवन्त रायः ।
यं त्रायसे दाश्वांसम्

5
यं त्वं विप्र मेधसातावग्ने हिनोषि धनाय ।
स तवोती गोषु गन्ता

6
त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय ।
प्र णो नय वस्यो अच्छ

7
उरुष्या णो मा परा दा अघायते जातवेदः ।
दुराध्ये मर्ताय

8
अग्ने माकिष्टे देवस्य रातिमदेवो युयोत ।
त्वमीशिषे वसूनाम्

9
स नो वस्व उप मास्यूर्जो नपान्माहिनस्य ।
सखे वसो जरितृभ्यः

10
अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।
अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये

11
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् ।
द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि

12
अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे ।
अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे

13
अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम् ।
अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम्

14
अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम् ।
अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः

15
अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे ।
विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुरृषूणाम्

[← Mandala 8 (103)](https://nakshatrikaveda.com/scriptures/library/rigveda/8)

[← 8.70](https://nakshatrikaveda.com/scriptures/library/rigveda/8/70)[8.72 →](https://nakshatrikaveda.com/scriptures/library/rigveda/8/72)
