[Home](https://nakshatrikaveda.com/)/[Scriptures](https://nakshatrikaveda.com/scriptures)/[Sanskrit Library](https://nakshatrikaveda.com/scriptures/library)/[Rigveda](https://nakshatrikaveda.com/scriptures/library/rigveda)/[Mandala 9](https://nakshatrikaveda.com/scriptures/library/rigveda/9)/9.63

# सूक्तम् 9.63 · Rigveda 9.63

ऋषिः निध्रुविः काश्यपः · दे. पवमानः सोमः। गायत्री

1
आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् ।
अस्मे श्रवांसि धारय

2
इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः ।
चमूष्वा नि षीदसि

3
सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् ।
मधुमाँ अस्तु वायवे

4
एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः ।
सोमा ऋतस्य धारया

5
इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् ।
अपघ्नन्तो अराव्णः

6
सुता अनु स्वमा रजोऽभ्यर्षन्ति बभ्रवः ।
इन्द्रं गच्छन्त इन्दवः

7
अया पवस्व धारया यया सूर्यमरोचयः ।
हिन्वानो मानुषीरपः

8
अयुक्त सूर एतशं पवमानो मनावधि ।
अन्तरिक्षेण यातवे

9
उत त्या हरितो दश सूरो अयुक्त यातवे ।
इन्दुरिन्द्र इति ब्रुवन्

10
परीतो वायवे सुतं गिर इन्द्राय मत्सरम् ।
अव्यो वारेषु सिञ्चत

11
पवमान विदा रयिमस्मभ्यं सोम दुष्टरम् ।
यो दूणाशो वनुष्यता

12
अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम् ।
अभि वाजमुत श्रवः

13
सोमो देवो न सूर्योऽद्रिभिः पवते सुतः ।
दधानः कलशे रसम्

14
एते धामान्यार्या शुक्रा ऋतस्य धारया ।
वाजं गोमन्तमक्षरन्

15
सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः ।
पवित्रमत्यक्षरन्

16
प्र सोम मधुमत्तमो राये अर्ष पवित्र आ ।
मदो यो देववीतमः

17
तमी मृजन्त्यायवो हरिं नदीषु वाजिनम् ।
इन्दुमिन्द्राय मत्सरम्

18
आ पवस्व हिरण्यवदश्वावत्सोम वीरवत् ।
वाजं गोमन्तमा भर

19
परि वाजे न वाजयुमव्यो वारेषु सिञ्चत ।
इन्द्राय मधुमत्तमम्

20
कविं मृजन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः ।
वृषा कनिक्रदर्षति

21
वृषणं धीभिरप्तुरं सोममृतस्य धारया ।
मती विप्राः समस्वरन्

22
पवस्व देवायुषगिन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा

23
पवमान नि तोशसे रयिं सोम श्रवाय्यम् ।
प्रियः समुद्रमा विश

24
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
नुदस्वादेवयुं जनम्

25
पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
अभि विश्वानि काव्या

26
पवमानास आशवः शुभ्रा असृग्रमिन्दवः ।
घ्नन्तो विश्वा अप द्विषः

27
पवमाना दिवस्पर्यन्तरिक्षादसृक्षत ।
पृथिव्या अधि सानवि

28
पुनानः सोम धारयेन्दो विश्वा अप स्रिधः ।
जहि रक्षांसि सुक्रतो

29
अपघ्नन्सोम रक्षसोऽभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्ममुत्तमम्

30
अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा ।
इन्दो विश्वानि वार्या

[← Mandala 9 (114)](https://nakshatrikaveda.com/scriptures/library/rigveda/9)

[← 9.62](https://nakshatrikaveda.com/scriptures/library/rigveda/9/62)[9.64 →](https://nakshatrikaveda.com/scriptures/library/rigveda/9/64)
