[Home](https://nakshatrikaveda.com/)/[Scriptures](https://nakshatrikaveda.com/scriptures)/[Sanskrit Library](https://nakshatrikaveda.com/scriptures/library)/[Rigveda](https://nakshatrikaveda.com/scriptures/library/rigveda)/[Mandala 9](https://nakshatrikaveda.com/scriptures/library/rigveda/9)/9.64

# सूक्तम् 9.64 · Rigveda 9.64

ऋषिः कश्यपो मारीचः। · दे. पवमानः सोमः। गायत्री।

1
वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः ।
वृषा धर्माणि दधिषे

2
वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः ।
सत्यं वृषन्वृषेदसि

3
अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः ।
वि नो राये दुरो वृधि

4
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।
शुक्रासो वीरयाशवः

5
शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः ।
पवन्ते वारे अव्यये

6
ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा ।
पवन्तामान्तरिक्ष्या

7
पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत ।
सूर्यस्येव न रश्मयः

8
केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि ।
समुद्रः सोम पिन्वसे

9
हिन्वानो वाचमिष्यसि पवमान विधर्मणि ।
अक्रान्देवो न सूर्यः

10
इन्दुः पविष्ट चेतनः प्रियः कवीनां मती ।
सृजदश्वं रथीरिव

11
ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत् ।
सीदन्नृतस्य योनिमा

12
स नो अर्ष पवित्र आ मदो यो देववीतमः ।
इन्दविन्द्राय पीतये

13
इषे पवस्व धारया मृज्यमानो मनीषिभिः ।
इन्दो रुचाभि गा इहि

14
पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः ।
हरे सृजान आशिरम्

15
पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् ।
द्युतानो वाजिभिर्यतः

16
प्र हिन्वानास इन्दवोऽच्छा समुद्रमाशवः ।
धिया जूता असृक्षत

17
मर्मृजानास आयवो वृथा समुद्रमिन्दवः ।
अग्मन्नृतस्य योनिमा

18
परि णो याह्यस्मयुर्विश्वा वसून्योजसा ।
पाहि नः शर्म वीरवत्

19
मिमाति वह्निरेतशः पदं युजान ऋक्वभिः ।
प्र यत्समुद्र आहितः

20
आ यद्योनिं हिरण्ययमाशुरृतस्य सीदति ।
जहात्यप्रचेतसः

21
अभि वेना अनूषतेयक्षन्ति प्रचेतसः ।
मज्जन्त्यविचेतसः

22
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
ऋतस्य योनिमासदम्

23
तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः ।
सं त्वा मृजन्त्यायवः

24
रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे ।
पवमानस्य मरुतः

25
त्वं सोम विपश्चितं पुनानो वाचमिष्यसि ।
इन्दो सहस्रभर्णसम्

26
उतो सहस्रभर्णसं वाचं सोम मखस्युवम् ।
पुनान इन्दवा भर

27
पुनान इन्दवेषां पुरुहूत जनानाम् ।
प्रियः समुद्रमा विश

28
दविद्युतत्या रुचा परिष्टोभन्त्या कृपा ।
सोमाः शुक्रा गवाशिरः

29
हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत् ।
सीदन्तो वनुषो यथा

30
ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः ।
पवस्व सूर्यो दृशे

[← Mandala 9 (114)](https://nakshatrikaveda.com/scriptures/library/rigveda/9)

[← 9.63](https://nakshatrikaveda.com/scriptures/library/rigveda/9/63)[9.65 →](https://nakshatrikaveda.com/scriptures/library/rigveda/9/65)
