[Home](https://nakshatrikaveda.com/)/[Scriptures](https://nakshatrikaveda.com/scriptures)/[Sanskrit Library](https://nakshatrikaveda.com/scriptures/library)/[Rigveda](https://nakshatrikaveda.com/scriptures/library/rigveda)/[Mandala 9](https://nakshatrikaveda.com/scriptures/library/rigveda/9)/9.67

# सूक्तम् 9.67 · Rigveda 9.67

ऋषिः सप्तर्षयः · ऋषयः - सप्तर्षयः(१-३ भरद्वाजो बार्हस्पत्यः, ४-६ कश्यपो मारीचः, ७-९ गोतमो राहूगणः, १०-१२ अत्रिःर्भौमः, १३-१५ विश्वामित्रो गाथिनः, १६-१८ जमदग्निर्भार्गवः, १९-२१ मैत्रावरुणिर्वासिष्ठः, २२-३२ पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा)। दे. पवमानः सोमः, १०-१२ पवमानः पूषा वा, २३-२७ पवमानोऽग्निः, २५ पवमानः सविता वा, २६ पवमानाग्निसवितारः, २७ विश्वे देवा वा, ३१-३२ पावमान्यध्येता। गायत्री, १६-१८ नित्यद्विपदा गायत्री, ३० पुरउष्णिक्, २७, ३१, ३२ अनुष्टुप्।

1
त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
पवस्व मंहयद्रयिः

2
त्वं सुतो नृमादनो दधन्वान्मत्सरिन्तमः ।
इन्द्राय सूरिरन्धसा

3
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्ममुत्तमम्

4
इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया ।
हरिर्वाजमचिक्रदत्

5
इन्दो व्यव्यमर्षसि वि श्रवांसि वि सौभगा ।
वि वाजान्सोम गोमतः

6
आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् ।
भरा सोम सहस्रिणम्

7
पवमानास इन्दवस्तिरः पवित्रमाशवः ।
इन्द्रं यामेभिराशत

8
ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः ।
आयुः पवत आयवे

9
हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम् ।
अभि गिरा समस्वरन्

10
अविता नो अजाश्वः पूषा यामनियामनि ।
आ भक्षत्कन्यासु नः

11
अयं सोमः कपर्दिने घृतं न पवते मधु ।
आ भक्षत्कन्यासु नः

12
अयं त आघृणे सुतो घृतं न पवते शुचि ।
आ भक्षत्कन्यासु नः

13
वाचो जन्तुः कवीनां पवस्व सोम धारया ।
देवेषु रत्नधा असि

14
आ कलशेषु धावति श्येनो वर्म वि गाहते ।
अभि द्रोणा कनिक्रदत्

15
परि प्र सोम ते रसोऽसर्जि कलशे सुतः ।
श्येनो न तक्तो अर्षति

16
पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः

17
असृग्रन्देववीतये वाजयन्तो रथा इव

18
ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत

19
ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि ।
दधत्स्तोत्रे सुवीर्यम्

20
एष तुन्नो अभिष्टुतः पवित्रमति गाहते ।
रक्षोहा वारमव्ययम्

21
यदन्ति यच्च दूरके भयं विन्दति मामिह ।
पवमान वि तज्जहि

22
पवमानः सो अद्य नः पवित्रेण विचर्षणिः ।
यः पोता स पुनातु नः

23
यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ।
ब्रह्म तेन पुनीहि नः

24
यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः ।
ब्रह्मसवैः पुनीहि नः

25
उभाभ्यां देव सवितः पवित्रेण सवेन च ।
मां पुनीहि विश्वतः

26
त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः ।
अग्ने दक्षैः पुनीहि नः

27
पुनन्तु मां देवजनाः पुनन्तु वसवो धिया ।
विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा

28
प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः ।
देवेभ्य उत्तमं हविः

29
उप प्रियं पनिप्नतं युवानमाहुतीवृधम् ।
अगन्म बिभ्रतो नमः

30
अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम ।
आखुं चिदेव देव सोम

31
यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् ।
सर्वं स पूतमश्नाति स्वदितं मातरिश्वना

32
पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् ।
तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम्

[← Mandala 9 (114)](https://nakshatrikaveda.com/scriptures/library/rigveda/9)

[← 9.66](https://nakshatrikaveda.com/scriptures/library/rigveda/9/66)[9.68 →](https://nakshatrikaveda.com/scriptures/library/rigveda/9/68)
