NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 1/1.30

सूक्तम् 1.30 · Rigveda 1.30

ऋषिः आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः · दे. १-१६ इन्द्रः, १७-१९ अश्विनौ, २०- २२ उषाः। १-१०, १२ - १५, १७ - २२ गायत्री, ११ पादनिचृद्गायत्री, १६ त्रिष्टुप्

1

आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् । मंहिष्ठं सिञ्च इन्दुभिः

2

शतं वा यः शुचीनां सहस्रं वा समाशिराम् । एदु निम्नं न रीयते

3

सं यन्मदाय शुष्मिण एना ह्यस्योदरे । समुद्रो न व्यचो दधे

4

अयमु ते समतसि कपोत इव गर्भधिम् । वचस्तच्चिन्न ओहसे

5

स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते । विभूतिरस्तु सूनृता

6

ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो । समन्येषु ब्रवावहै

7

योगेयोगे तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये

8

आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः । वाजेभिरुप नो हवम्

9

अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । यं ते पूर्वं पिता हुवे

10

तं त्वा वयं विश्ववारा शास्महे पुरुहूत । सखे वसो जरितृभ्यः

11

अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् । सखे वज्रिन्सखीनाम्

12

तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु । यथा त उश्मसीष्टये

13

रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर्मदेम

14

आ घ त्वावान्त्मनाप्त स्तोतृभ्यो धृष्णवियानः । ऋणोरक्षं न चक्र्योः

15

आ यद्दुवः शतक्रतवा कामं जरितॄणाम् । ऋणोरक्षं न शचीभिः

16

शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि । स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात्

17

आश्विनावश्वावत्येषा यातं शवीरया । गोमद्दस्रा हिरण्यवत्

18

समानयोजनो हि वां रथो दस्रावमर्त्यः । समुद्रे अश्विनेयते

19

न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः । परि द्यामन्यदीयते

20

कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये । कं नक्षसे विभावरि

21

वयं हि ते अमन्मह्यान्तादा पराकात् । अश्वे न चित्रे अरुषि

22

त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः । अस्मे रयिं नि धारय

← Mandala 1 (191)

← 1.291.31 →