NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 10/10.172

सूक्तम् 10.172 · Rigveda 10.172

ऋषिः संवर्त आङ्गिरसः · दे. उषाः। द्विपदा विराट्

1

आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः

2

आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः

3

पितुभृतो न तन्तुमित्सुदानवः प्रति दध्मो यजामसि

4

उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता

← Mandala 10 (191)

← 10.17110.173 →