NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 10/10.179

सूक्तम् 10.179 · Rigveda 10.179

ऋषिः क्रमेण - शिबिरौशीनरः, काशिराजः प्रतर्दनः, रौहिदश्वो वसुमनाः। · दे. इन्द्रः। त्रिष्टुप्, १ अनुष्टुप्

1

उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् । यदि श्रातो जुहोतन यद्यश्रातो ममत्तन

2

श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् । परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम्

3

श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः । माध्यंदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः

← Mandala 10 (191)

← 10.17810.180 →