NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 10/10.57

सूक्तम् 10.57 · Rigveda 10.57

ऋषिः बन्धुः श्रुतबन्धुर्विप्रबन्धुर्गौपायनाः · दे. विश्वे देवाः। गायत्री

1

मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्त स्थुर्नो अरातयः

2

यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः । तमाहुतं नशीमहि

3

मनो न्वा हुवामहे नाराशंसेन सोमेन । पितॄणां च मन्मभिः

4

आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्च सूर्यं दृशे

5

पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि

6

वयं सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तः सचेमहि

← Mandala 10 (191)

← 10.5610.58 →