NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 2/2.40

सूक्तम् 2.40 · Rigveda 2.40

ऋषिः गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः · दे. सोमापूषणौ, ६ (अन्त्यार्धर्चस्य) अदितिः । त्रिष्टुप्।

1

सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम्

2

इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा । आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु

3

सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् । विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम्

4

दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे । तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे

5

विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति । सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम

6

धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु । अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः

← Mandala 2 (43)

← 2.392.41 →