NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 3/3.21

सूक्तम् 3.21 · Rigveda 3.21

ऋषिः गाथी कौशिकः · दे. अग्निः। १ त्रिष्टुप्, २-३ अनुष्टुप्, ४ विराड्रूपा, ५ सतोबृहती

1

इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व । स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य

2

घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः । स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यम्

3

तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य । ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव

4

तुभ्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य । कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर

5

ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे । श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि

← Mandala 3 (62)

← 3.203.22 →