NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 3/3.25

सूक्तम् 3.25 · Rigveda 3.25

ऋषिः गाथिनो विश्वामित्रः · दे. अग्निः, ४ अग्नीन्द्रौ। त्रिष्टुप्

1

अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः । ऋधग्देवाँ इह यजा चिकित्वः

2

अग्निः सनोति वीर्याणि विद्वान्सनोति वाजममृताय भूषन् । स नो देवाँ एह वहा पुरुक्षो

3

अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः । क्षयन्वाजैः पुरुश्चन्द्रो नमोभिः

4

अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातम् । अमर्धन्ता सोमपेयाय देवा

5

अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः । सधस्थानि महयमान ऊती

← Mandala 3 (62)

← 3.243.26 →