NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 5/5.50

सूक्तम् 5.50 · Rigveda 5.50

ऋषिः स्वस्त्यात्रेयः · दे. विश्वे देवाः। अनुष्टुप्, ५ पङ्क्तिः।

1

विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् । विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे

2

ते ते देव नेतर्ये चेमाँ अनुशसे । ते राया ते ह्यापृचे सचेमहि सचथ्यैः

3

अतो न आ नॄनतिथीनतः पत्नीर्दशस्यत । आरे विश्वं पथेष्ठां द्विषो युयोतु यूयुविः

4

यत्र वह्निरभिहितो दुद्रवद्द्रोण्यः पशुः । नृमणा वीरपस्त्योऽर्णा धीरेव सनिता

5

एष ते देव नेता रथस्पतिः शं रयिः । शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे

← Mandala 5 (87)

← 5.495.51 →