NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 6/6.73

सूक्तम् 6.73 · Rigveda 6.73

ऋषिः बार्हस्पत्यो भरद्वाजः · दे. बृहस्पतिः। त्रिष्टुप्।

1

यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् । द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति

2

जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार । घ्नन्वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूँरमित्रान्पृत्सु साहन्

3

बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः । अपः सिषासन्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः

← Mandala 6 (75)

← 6.726.74 →