NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 7/7.2

सूक्तम् 7.2 · Rigveda 7.2

ऋषिः मैत्रावरुणिर्वसिष्ठः। · दे. आप्रीसूक्तं(१इध्मः समिद्धोऽग्निर्वा, २ नराशंसः, ३ इळः, ४ बर्हिः, ५ देवीर्द्वारः,६ उषासानक्ता, ७ दैव्यौ होतारौ प्रचेतसौ, ८ तिस्रो देव्यः सरस्वतीळाभारत्यः, ९ त्वष्टा, १० वनस्पतयः, ११ स्वाहाकृतयः। त्रिष्टुप्।

1

जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन् । उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततनः सूर्यस्य

2

नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः । ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा उभयानि हव्या

3

ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम् । मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन्महेम

4

सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ । आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम्

5

स्वाध्यो वि दुरो देवयन्तोऽशिश्रयू रथयुर्देवताता । पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन्

6

उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः । बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम्

7

विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै । ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि

8

आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः । सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु

9

तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व । यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः

10

वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति । सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद

11

आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः । बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम्

← Mandala 7 (104)

← 7.17.3 →