NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 7/7.59

सूक्तम् 7.59 · Rigveda 7.59

ऋषिः मैत्रावरुणिर्वसिष्ठः। · दे. १-११ मरुतः, १२ रुद्रः (मृत्युविमोचनी ऋक्)। प्रगाथः - विषमा बृहती, समा सतोबृहती, ७-८ त्रिष्टुप्, ९-११ गायत्री, १२ अनुष्टुप्।

1

यं त्रायध्व इदमिदं देवासो यं च नयथ । तस्मा अग्ने वरुण मित्रार्यमन्मरुतः शर्म यच्छत

2

युष्माकं देवा अवसाहनि प्रिय ईजानस्तरति द्विषः । प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति

3

नहि वश्चरमं चन वसिष्ठः परिमंसते । अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः

4

नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः । अभि व आवर्त्सुमतिर्नवीयसी तूयं यात पिपीषवः

5

ओ षु घृष्विराधसो यातनान्धांसि पीतये । इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गन्तन

6

आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु । अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै

7

सस्वश्चिद्धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् । विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः

8

यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति । द्रुहः पाशान्प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम्

9

सांतपना इदं हविर्मरुतस्तज्जुजुष्टन । युष्माकोती रिशादसः

10

गृहमेधास आ गत मरुतो माप भूतन । युष्माकोती सुदानवः

11

इहेह वः स्वतवसः कवयः सूर्यत्वचः । यज्ञं मरुत आ वृणे

12

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्

← Mandala 7 (104)

← 7.587.60 →