NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 7/7.65

सूक्तम् 7.65 · Rigveda 7.65

ऋषिः मैत्रावरुणिर्वसिष्ठः। · दे. मित्रावरुणौ, ४-१३ आदित्याः, १४-१६ सूर्यः। गायत्री, १०-१५ प्रगाथः ( ), १६ पुर उष्णिक् ।

1

प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम् । ययोरसुर्यमक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नु

2

ता हि देवानामसुरा तावर्या ता नः क्षितीः करतमूर्जयन्तीः । अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च

3

ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय । ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम

4

आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः । प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः

5

एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि । अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः

← Mandala 7 (104)

← 7.647.66 →