NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 9/9.104

सूक्तम् 9.104 · Rigveda 9.104

ऋषिः पर्वतनारदौ काण्वौ, काश्यप्यौ शिखण्डिन्यावप्सरसौ वा। · दे. पवमानः सोमः। उष्णिक्।

1

सखाय आ नि षीदत पुनानाय प्र गायत । शिशुं न यज्ञैः परि भूषत श्रिये

2

समी वत्सं न मातृभिः सृजता गयसाधनम् । देवाव्यं मदमभि द्विशवसम्

3

पुनाता दक्षसाधनं यथा शर्धाय वीतये । यथा मित्राय वरुणाय शंतमः

4

अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । गोभिष्टे वर्णमभि वासयामसि

5

स नो मदानां पत इन्दो देवप्सरा असि । सखेव सख्ये गातुवित्तमो भव

6

सनेमि कृध्यस्मदा रक्षसं कं चिदत्रिणम् । अपादेवं द्वयुमंहो युयोधि नः

← Mandala 9 (114)

← 9.1039.105 →