NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 9/9.15

सूक्तम् 9.15 · Rigveda 9.15

ऋषिः कश्यपोऽसितो देवलो वा। · दे. पवमानः सोमः। गायत्री।

1

एष धिया यात्यण्व्या शूरो रथेभिराशुभिः । गच्छन्निन्द्रस्य निष्कृतम्

2

एष पुरू धियायते बृहते देवतातये । यत्रामृतास आसते

3

एष हितो वि नीयतेऽन्तः शुभ्रावता पथा । यदी तुञ्जन्ति भूर्णयः

4

एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा । नृम्णा दधान ओजसा

5

एष रुक्मिभिरीयते वाजी शुभ्रेभिरंशुभिः । पतिः सिन्धूनां भवन्

6

एष वसूनि पिब्दना परुषा ययिवाँ अति । अव शादेषु गच्छति

7

एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः । प्रचक्राणं महीरिषः

8

एतमु त्यं दश क्षिपो मृजन्ति सप्त धीतयः । स्वायुधं मदिन्तमम्

← Mandala 9 (114)

← 9.149.16 →