सूक्तम् 9.46 · Rigveda 9.46
1
असृग्रन्देववीतयेऽत्यासः कृत्व्या इव । क्षरन्तः पर्वतावृधः
2
परिष्कृतास इन्दवो योषेव पित्र्यावती । वायुं सोमा असृक्षत
3
एते सोमास इन्दवः प्रयस्वन्तश्चमू सुताः । इन्द्रं वर्धन्ति कर्मभिः
4
आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना । गोभिः श्रीणीत मत्सरम्
5
स पवस्व धनंजय प्रयन्ता राधसो महः । अस्मभ्यं सोम गातुवित्
6
एतं मृजन्ति मर्ज्यं पवमानं दश क्षिपः । इन्द्राय मत्सरं मदम्