NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 9/9.67

सूक्तम् 9.67 · Rigveda 9.67

ऋषिः सप्तर्षयः · ऋषयः - सप्तर्षयः(१-३ भरद्वाजो बार्हस्पत्यः, ४-६ कश्यपो मारीचः, ७-९ गोतमो राहूगणः, १०-१२ अत्रिःर्भौमः, १३-१५ विश्वामित्रो गाथिनः, १६-१८ जमदग्निर्भार्गवः, १९-२१ मैत्रावरुणिर्वासिष्ठः, २२-३२ पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा)। दे. पवमानः सोमः, १०-१२ पवमानः पूषा वा, २३-२७ पवमानोऽग्निः, २५ पवमानः सविता वा, २६ पवमानाग्निसवितारः, २७ विश्वे देवा वा, ३१-३२ पावमान्यध्येता। गायत्री, १६-१८ नित्यद्विपदा गायत्री, ३० पुरउष्णिक्, २७, ३१, ३२ अनुष्टुप्।

1

त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे । पवस्व मंहयद्रयिः

2

त्वं सुतो नृमादनो दधन्वान्मत्सरिन्तमः । इन्द्राय सूरिरन्धसा

3

त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् । द्युमन्तं शुष्ममुत्तमम्

4

इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया । हरिर्वाजमचिक्रदत्

5

इन्दो व्यव्यमर्षसि वि श्रवांसि वि सौभगा । वि वाजान्सोम गोमतः

6

आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् । भरा सोम सहस्रिणम्

7

पवमानास इन्दवस्तिरः पवित्रमाशवः । इन्द्रं यामेभिराशत

8

ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः । आयुः पवत आयवे

9

हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम् । अभि गिरा समस्वरन्

10

अविता नो अजाश्वः पूषा यामनियामनि । आ भक्षत्कन्यासु नः

11

अयं सोमः कपर्दिने घृतं न पवते मधु । आ भक्षत्कन्यासु नः

12

अयं त आघृणे सुतो घृतं न पवते शुचि । आ भक्षत्कन्यासु नः

13

वाचो जन्तुः कवीनां पवस्व सोम धारया । देवेषु रत्नधा असि

14

आ कलशेषु धावति श्येनो वर्म वि गाहते । अभि द्रोणा कनिक्रदत्

15

परि प्र सोम ते रसोऽसर्जि कलशे सुतः । श्येनो न तक्तो अर्षति

16

पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः

17

असृग्रन्देववीतये वाजयन्तो रथा इव

18

ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत

19

ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि । दधत्स्तोत्रे सुवीर्यम्

20

एष तुन्नो अभिष्टुतः पवित्रमति गाहते । रक्षोहा वारमव्ययम्

21

यदन्ति यच्च दूरके भयं विन्दति मामिह । पवमान वि तज्जहि

22

पवमानः सो अद्य नः पवित्रेण विचर्षणिः । यः पोता स पुनातु नः

23

यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनीहि नः

24

यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः । ब्रह्मसवैः पुनीहि नः

25

उभाभ्यां देव सवितः पवित्रेण सवेन च । मां पुनीहि विश्वतः

26

त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः । अग्ने दक्षैः पुनीहि नः

27

पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा

28

प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः । देवेभ्य उत्तमं हविः

29

उप प्रियं पनिप्नतं युवानमाहुतीवृधम् । अगन्म बिभ्रतो नमः

30

अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम । आखुं चिदेव देव सोम

31

यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् । सर्वं स पूतमश्नाति स्वदितं मातरिश्वना

32

पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् । तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम्

← Mandala 9 (114)

← 9.669.68 →