अध्यायः 11 · Yajurveda (Shukla), Adhyaya 11
Madhyandina recension (Vajasaneyi Samhita), in 40 adhyayas · 83 mantras
What was checked: All 40 adhyayas are present, 1,975 mantras, which is the traditional count. The source prints the words apart ("कस् त्वा", "इदम् अहम्"); here a word that ends in a consonant is joined to the next as in a printed Samhita ("कस्त्वा", "इदमहम्"), and the rest is as printed. Where the page prints a number twice (19.6, 19.26 and others), the mantras are numbered by their place. The mantras are those of the source pages, read in the order they are numbered there; the commentaries on those pages are not used. The text is plain Devanagari, without Vedic accents (svara), and has not been compared with a printed edition. This is the Shukla (White) Yajurveda; the Krishna (Black) Yajurveda, such as the Taittiriya Samhita, is not in this library.
अध्यायः 11 · अग्निचयने उखादि समिदाध्यन्त मन्त्राः
युञ्जानः प्रथमं मनस्तत्वाय सविता धियम् । अग्नेर्ज्योतिर्निचाय्य पृथिव्या ऽअध्याभरत्
युक्तेन मनसा वयं देवस्य सवितुः सवे । स्वर्ग्याय शक्त्या
युक्त्वाय सविता देवान्त्स्वर्यतो धिया दिवम् । बृहज्ज्योतिः करिष्यतः सविता प्र सुवाति तान्
युञ्जते मन ऽउत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक ऽइन्मही देवस्य सवितुः परिष्टुतिः
युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक ऽएतु पथ्येव सूरेः । शृण्वन्तु विश्वे ऽअमृतस्य पुत्रा ऽआ ये धामानि दिव्यानि तस्थुः
यस्य प्रयाणमन्वन्य ऽइद्ययुर्देवा देवस्य महिमानमोजसा । यः पार्थिवानि विममे स ऽएतशो रजासि देवः सविता महित्वना
देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय । दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाचं नः स्वदतु
इमं नो देव सवितर्यज्ञं प्र णय देवाव्यꣳ सखिविदꣳ सत्राजितं धनजितꣳ स्वर्जितम् । ऋचा स्तोमꣳ समर्धय गायत्रेण रथन्तरं बृहद्गायत्रवर्तनि स्वाहा
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे गायत्रेण छन्दसाङ्गिरस्वत्पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदा भर त्रैष्टुभेन छन्दसाङ्गिरस्वत्
अभ्रिरसि नार्यसि त्वया वयमग्निꣳ शकेम खनितुꣳ सधस्थ आ जागतेन छन्दसाङ्गिरस्वत्
हस्त ऽआधाय सविता बिभ्रदभ्रिꣳ हिरण्ययीम् । अग्नेर्ज्योतिर्निचाय्य पृथिव्या ऽअध्या भर । आनुष्टुभेन छन्दसाङ्गिरस्वत्
प्रतूर्तं वाजिन्ना द्रव वरिष्ठामनु सम्वतम् । दिवि ते जन्म परममन्तरिक्षे तव नाभिः पृथिव्यामधि योनिरित्
युञ्जाथाꣳ रासभं युवमस्मिन्यामे वृषण्वसू । अग्निं भरन्तमस्मयुम्
योगे-योगे तवस्तरं वाजे-वाजे हवामहे । सखाय ऽइन्द्रमूतये
प्रतूर्वन्नेह्यवक्रामन्नशस्तो रुद्रस्य गाणपत्यं मयोभूरेहि । उर्वन्तरिक्षं वीहि । स्वस्तिगव्यूतिरभयानि कृण्वन्पूष्णा सयुजा सह
पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदा भर । अग्निं पुरीष्यमङ्गिरस्वदच्छेमः । ऽ अग्निं पुरीष्यमङ्गिरस्वद्भरिष्यामः
अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी ऽआ ततन्थ
आगत्य वाज्यध्वानꣳ सर्वा मृधो विधूनुते । अग्निꣳ सधस्थे महति चक्षुषा नि चिकीषते
आक्रम्य वाजिन्पृथिवीमग्निमिच्छ रुचा त्वम् । भूम्या वृक्त्वाय नो ब्रूहि यतः खनेम तं वयम्
द्यौस्ते पृष्ठं पृथिवी सधस्थमात्मान्तरिक्षꣳ समुद्रो योनिः । विख्याय चक्षुषा त्वमभि तिष्ठ पृतन्यतः
उत्क्राम महते सौभगायास्मादास्थानाद्द्रविणोदा वाजिन् । वयꣳ स्याम सुमतौ पृथिव्या ऽअग्निं खनन्त ऽउपस्थे ऽअस्याः
उदक्रमीद्द्रविणोदा वाज्यर्वाकः सु लोकꣳ सुकृतं पृथिव्याम् । ततः खनेम सुप्रतीकमग्निꣳ स्वो रुहाणा ऽअधि नाकमुत्तमम्
आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा । पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम्
आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत । मर्यश्री स्पृहयद्वर्णो ऽअग्निर्नाभिमृशे तन्वा जर्भुराणः
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे
परि त्वाग्ने पुरं वयं विप्रꣳ सहस्य धीमहि । धृषद्वर्णं दिवे-दिवे हन्तारं भङ्गुरावताम्
त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वत्खनामि । ज्योतिष्मन्तं त्वाग्ने सुप्रतीकमजस्रेण भानुना दीद्यतम् । शिवं प्रजाभ्योऽहिꣳसन्तं पृथिव्या सधस्थादग्निं पुरीष्यमङ्गिरस्वत्खनामः
अपां पृष्ठमसि योनिरग्नेः समुद्रमभितः पिन्वमानम् । वर्धमानो महाꣳ२ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व
शर्म च स्थो वर्म च स्थोऽच्छिद्रे बहुले ऽउभे । व्यचस्वती सं वसाथां भृतमग्निं पुरीष्यम्
संवसाथा स्वर्विदा समीची ऽउरसा त्मना । अग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमित्
पुरीष्यो सि विश्वभरा ऽअथर्वा त्वा प्रथमो निरमन्थदग्ने । त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतः
तमु त्वा दध्यङ्ङृषिः पुत्र ऽईधे अथर्वणः । वृत्रहणं पुरंदरम्
तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनंजयꣳ रणे-रणे
सीद होतः स्व ऽउ लोके चिकित्वान्सादया यज्ञꣳ सुकृतस्य योनौ । देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः
नि होता होतृषदने विदानस्त्वेषो दीदिवाꣳ२ ऽअसदत्सुदक्षः । अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो ऽअग्निः
सꣳ सीदस्व महाꣳ२ ऽअसि शोचस्व देववीतमः । वि धूमम् ऽअग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम्
अपो देवीरुपसृज मधुमतीरयक्ष्माय प्रजाभ्यः । तासामास्थानादुज्जिहतामोषधयः सुपिप्पलाः
सं ते वायुर्मातरिश्वा दधातूत्तानाया हृदयं यद्विकस्तम् । यो देवानां चरसि प्राणथेन कस्मै देव वषडस्तु तुभ्यम्
सुजातो ज्योतिषा सह शर्म वरूथमासदत्स्वः । वासो ऽअग्ने विश्वरूपꣳ संव्ययस्व विभावसो
उदु तिष्ठ स्वध्वरावा नो देव्या धिया । दृशे च भासा बृहता शुशुक्वनिराग्ने याहि सुशस्तिभिः
ऊर्ध्व ऽऊ षु ण ऽऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे
स जातो गर्भो ऽअसि रोदस्योरग्ने चारुर्विभृत ऽओषधीषु । चित्रः शिशुः परि तमास्यक्तून्प्र मातृभ्यो ऽअधि कनिक्रदद्गाः
स्थिरो भव वीड्वङ्ग ऽआशुर्भव वाज्यर्वन् । पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहणः
शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरः । मा द्यावापृथिवी ऽअभि शोचीर्मान्तरिक्षं मा वनस्पतीन्
प्रैतु वाजी कनिक्रदन्नानदद्रासभः पत्वा । भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरा । वृषाग्निं वृषणं भरन्नपां गर्भꣳ समुद्रियम् । अग्न ऽआयाहि वीतये
ऋतꣳ सत्यमृतꣳ सत्यम् । अग्निं पुरीष्यमङ्गिरस्वद्भरामः । ओषधयः प्रति मोदध्वमग्निमेतꣳ शिवमायन्तमभ्यत्र युष्माः । व्यस्यन्विश्वा ऽअनिरा ऽअमीवा निषीदन्नो ऽअप दुर्मतिं जहि
ओषधयः प्रति गृभ्णीत पुष्पवतीः सुपिप्पलाः । अयं वो गर्भ ऽऋत्वियः प्रत्नꣳ सधस्थमासदत्
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो ऽअमीवाः । सुशर्मणो बृहतः शर्मणि स्यामग्नेरहꣳ सुहवस्य प्रणीतौ
आपो हि ष्ठा मयोभुवस्ता न ऽऊर्जे दधातन । महे रणाय चक्षसे
यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः
तस्मा ऽअरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः
मित्रः सꣳसृज्य पृथिवीं भूमिं च ज्योतिषा सह । सुजातं जातवेदसमयक्ष्माय त्वा सꣳ सृजामि प्रजाभ्यः
रुद्राः सꣳसृज्य पृथिवीं बृहज्ज्योतिः समीधिरे । तेषां भानुरजस्र ऽइच्छुक्रो देवेषु रोचते
सꣳसृष्टा वसुभी रुद्रैर्धीरैः कर्मण्यां मृदम् । हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम्
सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा । सा तुभ्यमदिते मह्योखां दधातु हस्तयोः
उखां कृणोतु शक्त्या बाहुभ्यामदितिर्धिया । माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ ऽआ । मखस्य शिरोऽसि
वसवस्त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वद्ध्रुवासि पृथिव्यसि । धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान्यजमानाय । रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद्ध्रुवास्यन्तरिक्षमसि । धारया मयि प्रजाꣳ रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान्यजमानाय । आदित्यास्त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद्ध्रुवासि द्यौरसि । धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान्यजमानाय । विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाङ्गिरस्वद्ध्रुवासि दिशोऽसि । धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान्यजमानाय
अदित्यै राम्नासि । अदितिष्टे बिलं गृभ्णातु । कृत्वाय सा महीमुखां मृन्मयीं योनिमग्नये । पुत्रेभ्यः प्रायच्छददितिः श्रपयानिति
वसवस्त्वा धूपयन्तु गायत्रेण छन्दसाङ्गिरस्वत् । रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् । आदित्यास्त्वा धूपयन्तु जागतेन छन्दसाङ्गिरस्वत् । विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन छन्दसाङ्गिरस्वत् । इन्द्रस्त्वा धूपयतु । वरुणस्त्वा धूपयतु । विष्णु त्वा धूपयतु
अदितिष्ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽअङ्गिरस्वत्खनत्ववट । देवानाम्त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽअङ्गिरस्वद्दधतूखे । धिषणास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽअङ्गिरस्वदभीन्धतामुखे । वरूत्रीष्ट्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽअङ्गिरस्वच्छ्रपयन्तूखे । ग्नास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽअङ्गिरस्वत्पचन्तूखे । जनयस्त्वाच्छिन्नपत्रा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽअङ्गिरस्वत्पचन्तूखे
मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि । द्युम्नं चित्रश्रवस्तमम्
देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुरुत शक्त्या । अव्यथमाना पृथिव्यामाशा दिश ऽआ पृण
उत्थाय बृहती भवोदु तिष्ठ ध्रुवा त्वम् । मित्रैतां तऽउखां परि ददाम्यभित्त्या ऽएषा मा भेदि
वसवस्त्वा छृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वत् । रुद्रास्त्वा छृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् । आदित्यास्त्वा छृन्दन्तु जागतेन छन्दसाङ्गिरस्वत् । विश्वे त्वा देवा वैश्वानरा ऽआ छृन्दन्त्वानुष्टुभेन छन्दसाङ्गिरस्वत्
आकूतिमग्निं प्रयुजꣳ स्वाहा । मनो मेधामग्निं प्रयुजꣳ स्वाहा । चित्तं विज्ञातमग्निं प्रयुजꣳ स्वाहा । वाचो विधृतिमग्निं प्रयुजꣳ स्वाहा । प्रजापतये मनवे स्वाहा । ऽ अग्नये वैश्वानराय स्वाहा
विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् । विश्वो राय ऽइषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा
मा सु भित्था मा सु रिषोऽम्ब धृष्णु वीरयस्व सु । अग्निश्चेदं करिष्यथः
दृꣳहस्व देवि पृथिवि स्वस्तय ऽआसुरी माया स्वधया कृतासि । जुष्टं देवेभ्य ऽइदमस्तु हव्यमरिष्टा त्वमुदिहि यज्ञे ऽअस्मिन्
द्र्वन्न सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस्पुत्रो ऽअद्भुतः
परस्या ऽअधि संवतो वराꣳ ऽअभ्यातर । यत्राहमस्मि ताꣳ ऽअव
परमस्याः परावतो रोहिदश्व ऽइहा गहि । पुरीष्यः पुरुप्रियोऽग्ने त्वं तरा मृधः
यदग्ने कानि कानि चिदा ते दारूणि दध्मसि । सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्य
यदत्त्युपजिह्विका यद्वम्रो ऽअतिसर्पति । सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्य
अहर्-अहरप्रयावं भरन्तोऽश्वायेव तिष्ठते घासमस्मै । रायस्पोषेण समिषा मदन्तोऽग्ने मा ते प्रतिवेशा रिषाम
नाभा पृथिव्याः समिधाने ऽअग्नौ रायस्पोषाय बृहते हवामहे । इरंमदं बृहदुक्थ्यं यजत्रं जेतारमग्निं पृतनासु सासहिम्
याः सेना ऽअभीत्वरीराव्याधिनीरुगणा ऽउत । ये स्तेना ये च तस्करास्ताꣳस्ते ऽअग्नेऽपि दधाम्यास्ये
दꣳष्ट्राभ्यां मलिम्लून्जम्भ्यैस्तस्कराꣳ ऽउत । हनुभ्याꣳ स्तेनान्भगवस्ताꣳस्त्वं खाद सुखादितान्
ये जनेषु मलिम्लव स्तेनासस्तस्करा वने । ये कक्षेष्वघायवस्ताꣳस्ते दधामि जम्भयोः
यो ऽअस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः । निन्दाद्यो ऽअस्मान्धिप्साच्च सर्वं तं भस्मसा कुरु
सꣳशितं मे ब्रह्म सꣳशितं वीर्यं बलम् । सꣳशितं क्षत्रं जिष्णु यस्याहमस्मि पुरोहितः
उदेषां बाहू ऽअतिरमुद्वर्चो ऽअथो बलम् । क्षिणोमि ब्रह्मणामित्रानुन्नयामि स्वाꣳ अहम्
अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्र-प्र दातारं तारिष ऽऊर्जं नो धेहि द्विपदे चतुष्पदे