NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Yajurveda (Shukla)/Adhyaya 26

अध्यायः 26 · Yajurveda (Shukla), Adhyaya 26

Madhyandina recension (Vajasaneyi Samhita), in 40 adhyayas · 26 mantras

What was checked: All 40 adhyayas are present, 1,975 mantras, which is the traditional count. The source prints the words apart ("कस् त्वा", "इदम् अहम्"); here a word that ends in a consonant is joined to the next as in a printed Samhita ("कस्त्वा", "इदमहम्"), and the rest is as printed. Where the page prints a number twice (19.6, 19.26 and others), the mantras are numbered by their place. The mantras are those of the source pages, read in the order they are numbered there; the commentaries on those pages are not used. The text is plain Devanagari, without Vedic accents (svara), and has not been compared with a printed edition. This is the Shukla (White) Yajurveda; the Krishna (Black) Yajurveda, such as the Taittiriya Samhita, is not in this library.

अध्यायः 26 · खिलसंज्ञकाः मन्त्राः

1

अग्निश्च पृथिवी च संनते ते मे सं नमतामदः । वायुश्चाऽन्तरिक्षं च संनते ते मे सं नमतामदः । ऽ आदित्यश्च द्यौश्च संनते ते मे सं नमतामदः । ऽ आपश्च वरुणश्च संनते ते मे सं नमतामदः । सप्त सꣳसदो ऽअष्टमी भूतसाधनी । सकामाꣳ२ऽ अध्वनस्कुरु संज्ञानमस्तु मेऽमुना

2

यथेमां वाचं कल्याणीमावदानि जनेभ्यः । ब्रह्मराजन्याभ्याꣳ शूद्राय चार्याय च स्वाय चारणाय । प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृध्यतामुप मादो नमतु

3

बृहस्पते ऽअति यदर्यो ऽअर्हाद्द्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवस ऽऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् । उपयामगृहीतोऽसि बृहस्पतये त्वा । एष ते योनिर्बृहस्पतये त्वा

4

इन्द्र गोमन्निहा याहि पिबा सोमꣳ शतक्रतो । विद्यद्भिर्ग्रावभिः सुतम् । उपयामगृहीतोऽसीन्द्राय त्वा गोमते । ऽ एष ते योनिरिन्द्राय त्वा गोमते

5

इन्द्रा याहि वृत्रहन्पिबा सोमꣳ शतक्रतो । गोमद्भिर्ग्रावभिः सुतम् । उपयामगृहीतोऽसीन्द्राय त्वा गोमते । ऽ एष ते योनिरिन्द्राय त्वा गोमते

6

ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रं घर्ममीमहे । उपयामगृहीतोऽसि वैश्वानराय त्वा । एष ते योनिर्वैश्वानराय त्वा

7

वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः । इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण । उपयामगृहीतोऽसि वैश्वानराय त्वा । एष ते योनिर्वैश्वानराय त्वा

8

वैश्वानरो न ऽऊतय ऽआ प्र यातु परावतः । अग्निरुक्थेन वाहसा । उपयामगृहीतोऽसि वैश्वानराय त्वा । एष ते योनिर्वैश्वानराय त्वा

9

अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम् । उपयामगृहीतोऽस्यग्नये त्वा वर्चसे । ऽ एष ते योनिरग्नये त्वा वर्चसे

10

महाꣳ२ऽ इन्द्रो वज्रहस्तः षोडशी शर्म यच्छतु । हन्तु पाप्मानं योऽस्मान्द्वेष्टि । उपयामगृहीतोऽसि महेन्द्राय त्वा । एष ते योनिर्महेन्द्राय त्वा

11

तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न स्वसरेषु धेनव ऽइन्द्रं गीर्भिर्नवामहे

12

यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो । महिषीव त्वद्रयिस्त्वद्वाजा ऽउदीरते

13

एह्यू षु ब्रवाणि तेऽग्न ऽइत्थेतरा गिरः । एभिर्वर्धास ऽइन्दुभिः

14

ऋतवस्ते यज्ञं वि तन्वन्तु मासा रक्षन्तु ते हविः । संवत्सरस्ते यज्ञं दधातु नः प्रजां च परि पातु नः

15

उपह्वरे गिरीणाꣳ संगमे च नदीनाम् । धिया विप्रो ऽअजायत

16

उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । उग्रꣳ शर्म महि श्रवः

17

स न ऽइन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवोवित्परि स्रव

18

एना विश्वान्यर्य ऽआ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे

19

अनु वीरैरनु पुष्यास्म गोभिरन्वश्वैरनु सर्वेण पुष्टैः । अनु द्विपदानु चतुष्पदा वयं देवा नो यज्ञमृतुथा नयन्तु

20

अग्ने पत्नीरिहा वह देवानामुशतीरुप । त्वष्टारꣳ सोमपीतये

21

अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऽऋतुना । त्वꣳ हि रत्नधा ऽअसि

22

द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्रादृतुभिरिष्यत

23

तवायꣳ सोमस्त्वमेह्यर्वाङ्छश्वत्तमꣳ सुमना ऽअस्य पाहि । अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर ऽइन्दुमिन्द्र

24

अमेव नः सुहवा ऽआ हि गन्तन नि बर्हिषि सदतना रणिष्टन । अथा मन्दस्व जुजुषाणो ऽअन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः

25

स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । इन्द्राय पातवे सुतः

26

रक्षोहा विश्वचर्षणिरभि योनिमयोहतम् । द्रुणा(द्रोणे) सधस्थमासदत्

← Adhyaya 25Adhyaya 27 →