NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Yajurveda (Shukla)/Adhyaya 31

अध्यायः 31 · Yajurveda (Shukla), Adhyaya 31

Madhyandina recension (Vajasaneyi Samhita), in 40 adhyayas · 22 mantras

What was checked: All 40 adhyayas are present, 1,975 mantras, which is the traditional count. The source prints the words apart ("कस् त्वा", "इदम् अहम्"); here a word that ends in a consonant is joined to the next as in a printed Samhita ("कस्त्वा", "इदमहम्"), and the rest is as printed. Where the page prints a number twice (19.6, 19.26 and others), the mantras are numbered by their place. The mantras are those of the source pages, read in the order they are numbered there; the commentaries on those pages are not used. The text is plain Devanagari, without Vedic accents (svara), and has not been compared with a printed edition. This is the Shukla (White) Yajurveda; the Krishna (Black) Yajurveda, such as the Taittiriya Samhita, is not in this library.

अध्यायः 31 · अध्याय 31 विष्णु सूक्तम् · पुरुषसूक्ताध्यायः

1

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिꣳ सर्वत स्पृत्वात्यतिष्ठद्दशाङ्गुलम्

2

पुरुषऽएवेदꣳ सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति

3

एतावानस्य महिमातो ज्यायाꣳश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि

4

त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । ततो विष्वङ्व्यक्रामत्साशनानशने ऽअभि

5

तस्माद्विराडजायत विराजो ऽअधि पूरुषः । स जातो ऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः

6

तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् । पशूꣳस्ताꣳश्चक्रे वायव्यानारण्या ग्राम्याश्च ये

7

तस्माद्यज्ञात्सर्वहुत ऽऋचः सामानि जज्ञिरे । छन्दाꣳसि जज्ञिरे तस्माद्यजुस्तस्मादजायत

8

तस्मादश्वा ऽअजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाता ऽअजावयः

9

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः । तेन देवा ऽअयजन्त साध्या ऽऋषयश्च ये

10

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू का ऊरू पादा ऽउच्येते

11

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्याꣳ शूद्रो ऽअजायत

12

चन्द्रमा मनसो जातश्चक्षोः सूर्यो ऽअजायत । श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत

13

नाभ्या ऽआसीदन्तरिक्षꣳ शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाꣳऽ अकल्पयन्

14

यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म ऽइध्मः शरद्धविः

15

सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वाना ऽअबध्नन्पुरुषं पशुम्

16

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः

17

अद्भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्रे । तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे

18

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय

19

प्रजापतिश्चरति गर्भे ऽअन्तरजायमानो बहुधा वि जायते । तस्य योनिं परि पश्यन्ति धीरास्तस्मिन्ह तस्थुर्भुवनानि विश्वा

20

यो देवेभ्य ऽआतपति यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये

21

रुचं ब्राह्म्यं जनयन्तो देवा ऽअग्रे तदब्रुवन् । यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा ऽअसन्वशे

22

श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्ताम् । इष्णन्निषाणामुं म ऽइषाण सर्वलोकं म ऽइषाण

← Adhyaya 30Adhyaya 32 →