Shri Radha Rani (श्री राधा रानी)
Vrindavaneshwari, Supreme Soul of Lord Krishna, Queen of Barsana
श्रीराधाकृपाकटाक्षस्तवराजः (सम्पूर्ण)
Radha Kripa Kataksha Stotram (Complete)
मुनीन्द्रवृन्दवन्दिते त्रिलोकशोकहारिणि प्रसन्नवक्त्रपङ्कजे निकुञ्जभूविलासिनि।
व्रजेन्द्रभानुनन्दनि व्रजेन्द्रसूनुसङ्गते कदा करिष्यसीह मां कृपाकटाक्षभाजनम्॥ १ ॥
अशोकवृक्षवल्लरीवितानमण्डपस्थिते प्रवालबालपल्लवप्रभारुणाङ्घ्रिकोमले।
वराभयस्फुरत्करे प्रभूतसम्पदालये कदा करिष्यसीह मां कृपाकटाक्षभाजनम्॥ २ ॥
अनङ्गरङ्गमङ्गलप्रसङ्गभङ्गुरभ्रुवां सविभ्रमं ससम्भ्रमं दृगन्तबाणपातनैः।
निरन्तरं वशीकृतप्रतीतिनन्दनन्दने कदा करिष्यसीह मां कृपाकटाक्षभाजनम्॥ ३ ॥
तडित्सुवर्णचम्पकप्रदीप्तगौरविग्रहे मुखप्रभापरास्तकोटिशारदेन्दुमण्डले।
विचित्रचित्रसञ्चरच्चकोरशाबलोचने कदा करिष्यसीह मां कृपाकटाक्षभाजनम्॥ ४ ॥
मदोन्मदातियौवने प्रमोदमानमण्डिते प्रियानुरागरञ्जिते कलाविलासपण्डिते।
अनन्यधन्यकुञ्जराज्यकामकेलिकोविदे कदा करिष्यसीह मां कृपाकटाक्षभाजनम्॥ ५ ॥
अशेषहावभावधीरहीरहारभूषिते प्रभूतशातकुम्भकुम्भकुम्भकुम्भसुस्तनि।
प्रशस्तमन्दहास्यचूर्णपूर्णसौख्यसागरे कदा करिष्यसीह मां कृपाकटाक्षभाजनम्॥ ६ ॥
मृणालवालवल्लरी तरङ्गरङ्गदोर्लते लताग्रलास्यलोलनीललोचनावलोकने।
ललल्लुलन्मलन्मनोज्ञमुग्धमोहनाश्रिते कदा करिष्यसीह मां कृपाकटाक्षभाजनम्॥ ७ ॥
सुवर्णमालिकाञ्चितत्रिरेखकम्बुकण्ठगे त्रिसूत्रमङ्गलीगुणत्रिरत्नदीप्तिदीधिते।
सलोलनीलकुन्तलप्रसूनगुच्छगुम्फिते कदा करिष्यसीह मां कृपाकटाक्षभाजनम्॥ ८ ॥
नितम्बबिम्बलम्बमानपुष्पमेखलागुणे प्रशस्तरत्नकिङ्किणीकलापमध्यमञ्जुले।
करीन्द्रशुण्डदण्डकावराहसौभगोरुके कदा करिष्यसीह मां कृपाकटाक्षभाजनम्॥ ९ ॥
अनेकमन्त्रनादमञ्जुनूपुरारवस्खलत्समाजराजहंसवंशनिक्वणातिगौरवे।
विलोलहेमवल्लरीविडम्बचारुचङ्क्रमे कदा करिष्यसीह मां कृपाकटाक्षभाजनम्॥ १० ॥
अनन्तकोटिविष्णुलोकनम्रपद्मजार्चिते हिमाद्रिजापुलोमजाविरिञ्चजावरप्रदे।
अपारसिद्धिऋद्धिदिग्धसम्पदङ्गुलीनखे कदा करिष्यसीह मां कृपाकटाक्षभाजनम्॥ ११ ॥
मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि त्रिवेदभारतीश्वरि प्रमाणशासनेश्वरि।
रमेश्वरि क्षमेश्वरि प्रमोदकाननेश्वरि व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोऽस्तु ते॥ १२ ॥
अमुं ममाद्भुतं स्तवं निशम्य भानुनन्दनी करोतु सन्ततं जनं कृपाकटाक्षभाजनम्।
भवेत्तदैव सञ्चितत्रिरूपकर्मनाशनं भवेत्तदा व्रजेन्द्रसूनुमण्डलप्रवेशनम्॥ १३ ॥
राकायाञ्च सिताष्टम्यां दश्म्याञ्च विशुद्धधीः।
एकादश्यां त्रयोदश्यां यः पठेत्सशिवः स्वयम्॥ १४ ॥
यं यं कामयते कामं तन्तमाप्नोति साधकः।
राधाकृपाकटाक्षेण भुक्त्वान्ते मोक्षमाप्नुयात्॥ १५ ॥
ऊरुदघ्ने नाभिदघ्ने हृदघ्ने कण्ठदघ्नके।
राधाकुण्डजले स्थित्वा यः पठेत्साधकस्तु सः॥ १६ ॥
तस्य सर्वार्थसिद्धिः स्याद्वाक्सिद्धिञ्च तथा लभेत्।
ऐश्वर्यञ्च लभेत्साक्षाद्दृशा पश्यन्ति राधिकाम्॥ १७ ॥
तेन सा तत्क्षणादेव तुष्टा दत्ते महावरम्।
येन पश्यन्ति नेत्राभ्यां तत्प्रियं श्यामसुन्दरम्॥ १८ ॥
नित्यलीलाप्रवेश्यञ्च ददाति श्रीव्रजाधिपः।
अतः परतरं प्राप्त्यै वैष्णवस्य न विद्यते॥ १९ ॥
इति ऊर्ध्वाम्नायतन्त्रान्तर्गतः श्रीराधाकृपाकटाक्षस्तवराजः सम्पूर्णः।
