NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 9/9.57

सूक्तम् 9.57 · Rigveda 9.57

ऋषिः अवत्सारः काश्यपः · दे. पवमानः सोमः। गायत्री।

1

प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । अच्छा वाजं सहस्रिणम्

2

अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । हरिस्तुञ्जान आयुधा

3

स मर्मृजान आयुभिरिभो राजेव सुव्रतः । श्येनो न वंसु षीदति

4

स नो विश्वा दिवो वसूतो पृथिव्या अधि । पुनान इन्दवा भर

← Mandala 9 (114)

← 9.569.58 →