NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Rigveda/Mandala 9/9.58

सूक्तम् 9.58 · Rigveda 9.58

ऋषिः अवत्सारः काश्यपः। · दे. पवमानः सोमः। गायत्री।

1

तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति

2

उस्रा वेद वसूनां मर्तस्य देव्यवसः । तरत्स मन्दी धावति

3

ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । तरत्स मन्दी धावति

4

आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे । तरत्स मन्दी धावति

← Mandala 9 (114)

← 9.579.59 →