अध्यायः 14 · Yajurveda (Shukla), Adhyaya 14
Madhyandina recension (Vajasaneyi Samhita), in 40 adhyayas · 31 mantras
What was checked: All 40 adhyayas are present, 1,975 mantras, which is the traditional count. The source prints the words apart ("कस् त्वा", "इदम् अहम्"); here a word that ends in a consonant is joined to the next as in a printed Samhita ("कस्त्वा", "इदमहम्"), and the rest is as printed. Where the page prints a number twice (19.6, 19.26 and others), the mantras are numbered by their place. The mantras are those of the source pages, read in the order they are numbered there; the commentaries on those pages are not used. The text is plain Devanagari, without Vedic accents (svara), and has not been compared with a printed edition. This is the Shukla (White) Yajurveda; the Krishna (Black) Yajurveda, such as the Taittiriya Samhita, is not in this library.
अध्यायः 14 · अग्निचयने द्वितीय तृतीय चतुर्थी चिति मन्त्राः
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि ध्रुवं योनिमा सीद साधुया । उख्यस्य केतुं प्रथमं जुषाणा । अश्विनाध्वर्यू सादयतामिह त्वा
कुलायिनी घृतवती पुरंधिः स्योने सीद सदने पृथिव्याः । अभि त्वा रुद्रा वसवो गृणन्त्विमा ब्रह्म पीपिहि सौभगाय । अश्विनाध्वर्यू सादयतामिह त्वा
स्वैर्दक्षैर्दक्षपितेह सीद देवानाꣳ सुम्ने बृहते रणाय । पितेवैधि सूनव ऽआ सुशेवा स्वावेशा तन्वा सं विशस्व । अश्विनाध्वर्यू सादयतामिह त्वा
पृथिव्याः पुरीषमस्यप्सो नाम तां त्वा विश्वे ऽअभि गृणन्तु देवाः । स्तोमपृष्ठा घृतवतीह सीद प्रजावदस्मे द्रविणा यजस्व । अश्विनाध्वर्यू सादयतामिह त्वा
अदित्यास्त्वा पृष्ठे सादयाम्यन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीं भुवनानामूर्मिर्द्रप्सो ऽअपामसि विश्वकर्मा त ऽऋषिः । अश्विनाध्वर्यू सादयतामिह त्वा
शुक्रश्च शुचिश्च ग्रीष्मावृतू ऽअग्नेरन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्तामाप ऽओषधयः कल्पन्तामग्नयः पृथङ्नम ज्यैष्ठ्याय सव्रताः । ये ऽअग्नयः समनसोऽन्तरा द्यावापृथिवी ऽइमे ग्रैष्मावृतू ऽअभिकल्पमानाऽ इन्द्रमिव देवा ऽअभिसं विशन्तु तया देवतयाङ्गिरस्वद्ध्रुवे सीदतम्
सजूरृतुभिः सजूर्विधाभिः सजूर्देवैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा । सजूरृतुभिः सजूर्विधाभिः सजूर्वसुभिः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा । सजूरृतुभिः सजूर्विधाभिः सजू रुद्रैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा । सजूरृतुभिः सजूर्विधाभिः सजूरादित्यैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा । सजूरृतुभिः सजूर्विधाभिः सजूर्विश्वैर्देवैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा
प्राणं मे पाहि । अपानं मे पाहि । व्यानं मे पाहि । चक्षुर्म ऽउर्व्या वि भाहि । श्रोत्रं मे श्लोकय । अपः पिन्व । ओषधीर्जिन्व । द्विपादव । चतुष्पात्पाहि । दिवो वृष्टिमेरय
मूर्धा वयः प्रजापतिश्छन्दः । क्षत्रं वयो मयंदं छन्दः । विष्टम्भो वयोऽधिपतिश्छन्दः । विश्वकर्मा वयः परमेष्ठी छन्दः । वस्तो वयो विवलं छन्दः । वृष्णिर्वयो विशालं छन्दः । पुरुषो वयस्तन्द्रं छन्दः । व्याघ्रो वयोऽनाधृष्टं छन्दः । सिꣳहो वयश्छदिश्छन्दः । पष्ठवाड्वयो बृहती छन्दः । ऽ उक्षा वयः ककुप्छन्दः । ऽ ऋषभो वयः सतोबृहती छन्दः
अनड्वान्वयः पङ्क्तिश्छन्दः । धेनुर्वयो जगती छन्दः । त्र्यविर्वयस्त्रिष्टुप्छन्दः । दित्यवाड्वयो विराट्छन्दः । पञ्चाविर्वयो गायत्री छन्दः । त्रिवत्सो वय ऽउष्णिक्छन्दः । तुर्यवाड्वयोऽनुष्टुप्छन्दः । [ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन् । ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः । इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम्
इन्द्राग्नी ऽअव्यथमानामिष्टकां दृꣳहतं युवम् । पृष्ठेन द्यावापृथिवी ऽअन्तरिक्षं च विबाधसे
विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीमन्तरिक्षं यच्छान्तरिक्षं दृꣳहान्तरिक्षं मा हिꣳसीः । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । वायुष्ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद्ध्रुवा सीद
राज्ञ्यसि प्राची दिक् । विराडसि दक्षिणा दिक् । सम्राडसि प्रतीची दिक् । स्वराडस्युदीची दिक् । अधिपत्न्यसि बृहती दिक्
विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीम् । विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर्यच्छ । वायुष्टेऽधिपतिस्तया देवतयाङ्गिरस्वद्ध्रुवा सीद
नभश्च नभस्यश्च वार्षिकावृतू ऽअग्नेरन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्तामाप ऽओषधयः कल्पन्तामग्नयः पृथङ्नम ज्यैष्ठ्याय सव्रताः । ये ऽअग्नयः समनसोऽन्तरा द्यावापृथिवी ऽइमे वार्षिकावृतू ऽअभिकल्पमानाऽ इन्द्रमिव देवा ऽअभिसं विशन्तु तया देवतयाङ्गिरस्वद्ध्रुवे सीदतम्
इषश्चोर्जश्च शारदावृतू ऽअग्नेरन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्तामाप ऽओषधयः कल्पन्तामग्नयः पृथङ्नम ज्यैष्ठ्याय सव्रताः । ये ऽअग्नयः समनसोऽन्तरा द्यावापृथिवी ऽइमे शारदावृतू ऽअभिकल्पमाना ऽइन्द्रमिव देवाऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद्ध्रुवे सीदतम्
आयुर्मे पाहि । प्राणं मे पाहि । अपानं मे पाहि । व्यानं मे पाहि । चक्षुर्मे पाहि । श्रोत्रं मे पाहि । वाचं मे पिन्व । मनो मे जिन्व । आत्मानं मे पाहि । ज्योतिर्मे यच्छ
मा छन्दः । प्रमा छन्दः । प्रतिमा छन्दः । ऽ अस्रीवयश्छन्दः । पङ्क्तिश्छन्दः । ऽ उष्णिक्छन्दः । बृहती छन्दः । ऽअनुष्टुप्छन्दः । विराट्छन्दः । गायत्री छन्दः । त्रिष्टुप्छन्दः । जगती छन्दः
पृथिवी छन्दः । ऽअन्तरिक्षं छन्दः । द्यौश्छन्दः । समाश्छन्दः । नक्षत्राणि छन्दः । वाक्छन्दः । मनश्छन्दः । कृषिश्छन्दः । हिरण्यं छन्दः । गौश्छन्दः । ऽअजा छन्दः । ऽअश्वश्छन्दः
अग्निर्देवता । वातो देवता । सूर्यो देवता । चन्द्रमा देवता । वसवो देवता । रुद्रा देवता । ऽऽआदित्या देवता । मरुतो देवता । विश्वे देवा देवता । बृहस्पतिर्देवता । इन्द्रो देवता । वरुणो देवता
मूर्धासि राड्ध्रुवासि धरुणा धर्त्र्यसि धरणी । आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा
यन्त्री राड्यन्त्र्यसि यमनी ध्रुवासि धरित्री । इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा । लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन् । ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः । इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम्
आशुर्त्रिवृत् । भान्तः पञ्चदशः । व्योमा सप्तदशः । धरुण ऽएकविꣳशः । प्रतूर्तिरष्टादशः । तपो नवदशः । ऽअभीवर्तः सविꣳशः । वर्चो द्वाविꣳशः । संभरणस्त्रयोविꣳशः । योनिश्चतुर्विꣳशः । गर्भाः पञ्चविꣳशः । ऽ ओजस्त्रिणवः । क्रतुरेकत्रिꣳशः । प्रतिष्ठा त्रयस्त्रिꣳशः । ब्रध्नस्य विष्टपं चतुस्त्रिꣳशः । नाकः षट्त्रिꣳशः । विवर्तो ष्टाचत्वारिꣳशः । धर्त्रं चतुष्टोमः
अग्नेर्भागोऽसि दीक्षाया ऽआधिपत्यं ब्रह्म स्पृतं त्रिवृत्स्तोमः । इन्द्रस्य भागोऽसि विष्णोराधिपत्यं क्षत्रꣳ स्पृतं पञ्चदशः स्तोमः । नृचक्षसां भागोऽसि धातुराधिपत्यं जनित्रꣳ स्पृतꣳ सप्तदशः स्तोमः । मित्रस्य भागोऽसि वरुणस्याधिपत्यं दिवो वृष्टिर्वात स्पृत ऽएकविꣳश स्तोमः
वसूनां भागोऽसि रुद्राणामाधिपत्यं चतुष्पात्स्पृतं चतुर्विꣳश स्तोमः । आदित्यानां भागोऽसि मरुतामाधिपत्यं गर्भा स्पृताः पञ्चविꣳश स्तोमः । अदित्यै भागोऽसि पूष्ण ऽआधिपत्यमोज स्पृतं त्रिणव स्तोमः । देवस्य सवितुर्भागोऽसि बृहस्पतेराधिपत्यꣳ समीचीर्दिश स्पृताश्चतुष्टोम स्तोमः
यवानां भागोऽस्ययवानामाधिपत्यं प्रजा स्पृताश्चतुश्चत्वारिꣳश स्तोमः । ऋभूणां भागोऽसि विश्वेषां देवानामाधिपत्यं भूतꣳ स्पृतं त्रयस्त्रिꣳश स्तोमः
सहश्च सहस्यश्च हैमन्तिकावृतू ऽअग्नेरन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्तामाप ऽओषधयः कल्पन्तामग्नयः पृथङ्नम ज्यैष्ठ्याय सव्रताः । ये ऽअग्नयः समनसो न्तरा द्यावापृथिवी ऽइमे हैमन्तिकावृतू ऽअभिकल्पमाना ऽइन्द्रमिव देवा ऽअभिसंविशन्तु तया देवतयाङ्गिरस्वद्ध्रुवे सीदतम्
एकयास्तुवत प्रजा ऽअधीयन्त प्रजापतिरधिपतिरासीत् । तिसृभिरस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिरधिपतिरासीत् । पञ्चभिरस्तुवत भूतान्यसृज्यन्त भूतानां पतिरधिपतिरासीत् । सप्तभिरस्तुवत सप्त ऋषयोऽसृज्यन्त धाताधिपतिरासीत्
नवभिरस्तुवत पितरोऽसृज्यन्तादितिरध्निपत्न्यासीत् । एकादशभिरस्तुवत ऽऋतवोऽसृज्यन्तार्तवा ऽअधिपतय ऽआसन् । त्रयोदशभिरस्तुवत मासा ऽअसृज्यन्त संवत्सरोऽधिपतिरासीत् । पञ्चदशभिरस्तुवत क्षत्रमसृज्यतेन्द्रोऽधिपतिरासीत् । सप्तदशभिरस्तुवत ग्राम्याः पशवोऽसृज्यन्त बृहस्पतिरधिपतिरासीत्
नवदशभिरस्तुवत शूद्रार्यावसृज्येतामहोरात्रे ऽअधिपत्नी आस्ताम् । एकविꣳशत्यास्तुवतैकशफाः पशवो सृज्यन्त वरुणोऽधिपतिरासीत् । त्रयोविꣳशत्यास्तुवत क्षुद्रां पशवोऽसृज्यन्त पूषाधिपतिरासीत् । पञ्चविꣳशत्यास्तुवताऽऽरण्याः पशवोऽसृज्यन्त वायुरधिपतिरासीत् । सप्तविꣳशत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्राऽ आदित्याऽ अनुव्यायꣳस्त ऽएवाधिपतय ऽआसन्
नवविꣳशत्यास्तुवत वनस्पतयोऽसृज्यन्त सोमोऽधिपतिरासीत् । एकत्रिꣳशतास्तुवत प्रजा ऽअसृज्यन्त यवाश्चायवाश्चाधिपतय ऽआसन् । त्रयस्त्रिꣳशतास्तुवत भूतान्यशाम्यन्प्रजापतिः परमेष्ठ्यधिपतिरासीत् । [लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन् । ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः । इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम्