NAKSHATRIKAVEDA
Sign In
Home/Scriptures/Sanskrit Library/Yajurveda (Shukla)/Adhyaya 15

अध्यायः 15 · Yajurveda (Shukla), Adhyaya 15

Madhyandina recension (Vajasaneyi Samhita), in 40 adhyayas · 65 mantras

What was checked: All 40 adhyayas are present, 1,975 mantras, which is the traditional count. The source prints the words apart ("कस् त्वा", "इदम् अहम्"); here a word that ends in a consonant is joined to the next as in a printed Samhita ("कस्त्वा", "इदमहम्"), and the rest is as printed. Where the page prints a number twice (19.6, 19.26 and others), the mantras are numbered by their place. The mantras are those of the source pages, read in the order they are numbered there; the commentaries on those pages are not used. The text is plain Devanagari, without Vedic accents (svara), and has not been compared with a printed edition. This is the Shukla (White) Yajurveda; the Krishna (Black) Yajurveda, such as the Taittiriya Samhita, is not in this library.

अध्यायः 15 · पञ्चम चिति मन्त्राः, चयन मन्त्राश्च

1

अग्ने जातान्प्र णुद नः सपत्नान्प्रत्यजातान्नुद जातवेदः । अधि नो ब्रूहि सुमना ऽअहेडꣳस्तव स्याम शर्मꣳस्त्रिवरूथ ऽउद्भौ

2

सहसा जातान्प्र णुदा नः सपत्नान्प्रत्यजातान्जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो वयꣳ स्याम प्र णुदा नः सपत्नान्

3

षोडशी स्तोम ऽओजो द्रविणम् । चतुश्चत्वारिꣳश स्तोमो वर्चो द्रविणम् । अग्नेः पुरीषमस्य अप्सो नाम तां त्वा विश्वे ऽअभि गृणन्तु देवाः । स्तोमपृष्ठा घृतवतीह सीद प्रजावदस्मे द्रविणा यजस्व

4

एवश्छन्दः । वरिवश्छन्दः । शंभूश्छन्दः । परिभूश्छन्दः । ऽ आच्छच्छन्दः । मनश्छन्दः । व्यचश्छन्दः । सिन्धुश्छन्दः । समुद्रश्छन्दः । सरिरं छन्दः । ककुप्छन्दः । त्रिककुप्छन्दः । काव्यं छन्दः । ऽ अङ्कुपं छन्दः । अक्षरपङ्क्तिश्छन्दः । पदपङ्क्तिश्छन्दः । विष्टारपङ्क्तिश्छन्दः । क्षुरो भ्राजश्छन्दः

5

आच्छच्छन्दः । प्रच्छच्छन्दः । संयच्छन्दः । वियच्छन्दः । बृहच्छन्दः । रथन्तरं छन्दः । निकायश्छन्दः । विवधश्छन्दः । गिरश्छन्दः । भ्रजश्छन्दः । सꣳस्तुप्छन्दः । ऽ अनुष्टुप्छन्दः । ऽ एवश्छन्दः । वरिवश्छन्दः । वयश्छन्दः । वयस्कृच्छन्दः । विष्पर्धाश्छन्दः । विशालं छन्दः । छदिश्छन्दः । दूरोहणं छन्दः । तन्द्रं छन्दः । ऽ अङ्काङ्कं छन्दः

6

रश्मिना सत्याय सत्यं जिन्व । प्रेतिना धर्मणा धर्मं जिन्व । अन्वित्या दिवा दिवं जिन्व । संधिनान्तरिक्षेणान्तरिक्षं जिन्व । प्रतिधिना पृथिव्या पृथिवीं जिन्व । विष्टम्भेन वृष्ट्या वृष्टिं जिन्व । प्रवयाऽह्नाहर्जिन्व । अनुया रात्र्या रात्रीं जिन्व । उशिजा वसुभ्यो वसून्जिन्व । प्रकेतेनादित्येभ्य ऽआदित्यान्जिन्व

7

तन्तुना रायस्पोषेण रायस्पोषं जिन्व । सꣳसर्पेण श्रुताय श्रुतं जिन्व । ऐडेनौषधीभिरोषधीर्जिन्व । उत्तमेन तनूभिस्तनूर्जिन्व । वयोधसाधीतेनाधीतं जिन्व । अभिजिता तेजसा तेजो जिन्व

8

प्रतिपदसि प्रतिपदे त्वा । अनुपदस्यनुपदे त्वा । सम्पदसि सम्पदे त्वा । तेजोऽसि तेजसे त्वा

9

त्रिवृदसि त्रिवृते त्वा । प्रवृदसि प्रवृते त्वा । विवृदसि विवृते त्वा । सवृदसि सवृते त्वा । ऽऽआक्रमोऽस्याक्रमाय त्वा । संक्रमोऽसि संक्रमाय त्वा । उत्क्रमोऽस्युत्क्रमाय त्वा । उत्क्रान्तिरस्युत्क्रान्त्यै त्वा । अधिपतिनोर्जोर्जं जिन्व

10

राज्ञ्यसि प्राची दिग्वसवस्ते देवा ऽअधिपतयोऽग्निर्हेतीनां प्रतिधर्ता त्रिवृत्त्वा स्तोमः पृथिव्याꣳ श्रयत्वाज्यमुक्थमव्यथायै स्तभ्नातु रथन्तरꣳ साम प्रतिष्ठित्याऽ अन्तरिक्ष ऽऋषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायमधिपतिश्च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु

11

विराडसि दक्षिणा दिग्रुद्रास्ते देवा ऽअधिपतय ऽइन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस्त्वा स्तोमः पृथिव्याꣳ श्रयतु प्रौगमुक्थमव्यथायै स्तभ्नातु बृहत्साम प्रतिष्ठित्या ऽअन्तरिक्ष ऽऋषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायमधिपतिश्च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु

12

सम्राडसि प्रतीची दिगादित्यास्ते देवा ऽअधिपतयो वरुणो हेतीनां प्रतिधर्ता सप्तदशस्त्वा स्तोमः पृथिव्याꣳ श्रयतु मरुत्वतीयमुक्थमव्यथायै स्तभ्नातु वैरूपꣳ साम प्रतिष्ठित्या ऽअन्तरिक्ष ऽऋषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायमधिपतिश्च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु

13

स्वराडस्युदीच्य्दिङ्मरुतस्ते देवा ऽअधिपतयः सोमो हेतीनां प्रतिधर्तैकविꣳशस्त्वा स्तोमः पृथिव्याꣳ श्रयतु निष्केवल्यमुक्थमव्यथायै स्तभ्नातु वैराजꣳ साम प्रतिष्ठित्या ऽअन्तरिक्ष ऽऋषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायमधिपतिश्च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु

14

अधिपत्न्यसि बृहती दिग्विश्वे ते देवा ऽअधिपतयो बृहस्पतिर्हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिꣳशौ त्वा स्तोमौ पृथिव्याꣳ श्रयतां वैश्वदेवाग्निमारुते ऽउक्थे ऽअव्यथायै स्तभ्नीताꣳ शाक्वररैवते सामनी प्रतिष्ठित्या ऽअन्तरिक्ष ऽऋषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायमधिपतिश्च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु

15

अयं पुरो हरिकेशः सूर्यरश्मिस्तस्य रथगृत्सश्च रथौजाश्च सेनानीग्रामण्यौ । पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस्तेभ्यो नमो ऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः

16

अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्यौ । मेनका च सहजन्या चाप्सरसौ यातुधाना हेती रक्षाꣳसि प्रहेतिस्तेभ्यो नमो ऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः

17

अयं पश्चाद्विश्वव्यचास्तस्य रथप्रोतश्चासमरथश्च सेनानीग्रामण्यौ । प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिः सर्पा प्रहेतिस्तेभ्यो नमो ऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः

18

अयमुत्तरात्संयद्वसुस्तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानीग्रामण्यौ । विश्वाची च घृताची चाप्सरसावापो हेतिर्वातः प्रहेतिस्तेभ्यो नमो ऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः

19

अयमुपर्यर्वाग्वसुस्तस्य सेनजिच्च सुषेणश्च सेनानीग्रामण्यौ । उर्वशी च पूर्वचित्तिश्चाप्सरसाववस्फूर्जन्हेतिर्विद्युत्प्रहेतिस्तेभ्यो नमो ऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः

20

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या ऽअयम् । अपाꣳ रेताꣳसि जिन्वति

21

अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः । मूर्धा कवी रयीणाम्

22

त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतः

23

भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम्

24

अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । यह्वा ऽइव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ

25

अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममुरुव्यञ्चमश्रेत्

26

अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो ऽअध्वरेष्वीड्यः । यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशे-विशे

27

जनस्य गोपा ऽअजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः

28

त्वामग्ने ऽअङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वने-वने । स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः

29

सखायः सं वः सम्यञ्चमिषꣳ स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते

30

सꣳ-समिद्युवसे वृषन्नग्ने विश्वान्यर्य ऽआ । इडस्पदे समिध्यसे स नो वसून्या भर

31

त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे

32

एना वो ऽअग्निं नमसोर्जो नपातमा हुवे । प्रियं चेतिष्ठमरतिꣳ स्वध्वरं विश्वस्य दूतममृतम्

33

विश्वस्य दूतममृतं विश्वस्य दूतममृतम् । स योजते ऽअरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः

34

स दुद्रवत्स्वाहुतः स दुद्रवत्स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवꣳ राधो जनानाम्

35

अग्ने वाजस्य गोमत ऽईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवः

36

स ऽइधानो वसुष्कविरग्निरीडेन्यो गिरा । रेवदस्मभ्यं पुर्वणीक दीदिहि

37

क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः । स तिग्मजम्भ रक्षसो दह प्रति

38

भद्रो नोऽअग्निराहुतो भद्रा रातिः सुभग भद्रो ऽअध्वरः । भद्राऽ उत प्रशस्तयः

39

भद्रा ऽउत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहः

40

येना समत्सु सासहोऽव स्थिरा तनुहि भूरि शर्धताम् । वनेमा ते ऽअभिष्टिभिः

41

अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । अस्तमर्वन्त ऽआशवोऽस्तं नित्यासो वाजिन ऽइषꣳ स्तोतृभ्य ऽआ भर

42

सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः । समर्वन्तो रघुद्रुवः सꣳ सुजातासः सूरय ऽइषꣳ स्तोतृभ्य ऽआ भर

43

उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष ऽआसनि । उतो न ऽउत्पुपूर्या ऽउक्थेषु शवसस्पत ऽइषꣳ स्तोतृभ्य ऽआ भर

44

अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् । ऋध्यामा त ऽओहैः

45

अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । रथीरृतस्य बृहतो बभूथ

46

एभिर्नो ऽअर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः । अग्ने विश्वेभिः सुमना ऽअनीकैः

47

अग्निꣳ होतारं मन्ये दास्वन्तं वसुꣳ सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् । य ऽऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु वष्टि शोचिषाऽऽजुह्वानस्य सर्पिषः

48

अग्ने त्वं नो ऽअन्तम उत त्राता शिवो भवा वरूथ्यः । वसुरग्निर्वसुश्रवा ऽअच्छा नक्षि द्युमत्तमꣳ रयिं दाः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः

49

येन ऽऋषयस्तपसा सत्रमायन्निन्धाना ऽअग्निꣳ स्वराभरन्तः । तस्मिन्नहं नि दधे नाके ऽअग्निं यमाहुर्मनव स्तीर्णबर्हिषम्

50

तं पत्नीभिरनु गच्छेम देवाः पुत्रैर्भ्रातृभिरुत वा हिरण्यैः । नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे ऽअधि रोचने दिवः

51

आ वाचो मध्यमरुहद्भुरण्युरयमग्निः सत्पतिश्चेकितानः । पृष्ठे पृथिव्या निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः

52

अयमग्निर्वीरतमो वयोधाः सहस्रियो द्योततामप्रयुच्छन् । विभ्राजमानः सरिरस्य मध्य ऽउप प्र याहि दिव्यानि धाम

53

सम्प्रच्यवध्वमुप सम्प्रयाताग्ने पथो देवयानान्कृणुध्वम् । पुनः कृण्वाना पितरा युवानान्वा ताꣳसीत्त्वयि तन्तुमेतम्

54

उद्बुध्यस्वाग्ने प्रति जागृहि त्वमिष्टापूर्ते सꣳ सृजेथामयं च । अस्मिन्त्सधस्थे अध्युत्तरस्मिन्विशवे देवा यजमानश्च सीदत

55

येन वहसि सहस्रं येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो नय स्वर्देवेषु गन्तवे

56

अयं ते योनिरृत्वियो यतो जातो ऽअरोचथाः । तं जानन्नग्न ऽआरोहाथा नो वर्धया रयिम्

57

तपश्च तपस्यश्च शैशिरावृतू ऽअग्नेरन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्तामाप ऽओषधयः कल्पन्तामग्नयः पृथङ्नम ज्यैष्ठ्याय सव्रताः । ये ऽअग्नयः समनसो न्तरा द्यावापृथिवी ऽइमे शैशिरावृतू ऽअभिकल्पमाना ऽइन्द्रमिव देवा ऽअभिसं विशन्तु तया देवतयाङ्गिरस्वद्ध्रुवे सीदतम्

58

परमेष्ठी त्वा सादयतु दिवस्पृष्ठे ज्योतिष्मतीम् । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । सूर्यस्तेऽधिपतिस्तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद

59

लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन्

60

ता ऽअस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः

61

इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम्

62

प्रोथदश्वो न यवसे विष्यन्यदा महः संवरणाद्व्यस्थात् । आदस्य वातो ऽअनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति

63

आयोष्ट्वा सदने सादयाम्यवतश्छायायाꣳ समुद्रस्य हृदये । रश्मीवतीं भास्वतीमा या द्यां भास्या पृथिवीमोर्वन्तरिक्षम्

64

परमेष्ठी त्वा सादयतु दिवस्पृष्ठे व्यचस्वतीं प्रथस्वतीम्दिवं यच्छ दिवं दृꣳह दिवं मा हिꣳसीः । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । सूर्यस्त्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद्ध्रुवे सीदतम्

65

सहस्रस्य प्रमासि । सहस्रस्य प्रतिमासि । सहस्रस्योन्मासि । साहस्रोऽसि । सहस्राय त्वा

← Adhyaya 14Adhyaya 16 →